जातु इत्येतदविद्यमानपूर्वम्, तेन युक्तं तिङन्तं नानुदात्तं भवति। जातु भोक्ष्यसे। जातु करिष्यामि। अपूर्वम् इति किम्? कटं जातु करिष्यति।
"अपूर्वम्()" इति।
अविद्यमानं पूर्वं यस्मात्? तदपूर्वम्()। अत्र च द्वयं सम्भाव्यते--तिङन्तस्य चेदं विशेषणं स्यात्(), जातुशब्दस्य वेति।
तत्र यदि तिङन्तस्य स्यात्? "आहोउताहो जानन्तरन्()"
८।१।४९ इत्यत्रानन्तर ग्रहणं न कुर्यात्()। अस्यैव ह्रपूर्वग्रहणस्य तत्रानुवृत्तेस्तिङन्तस्यानन्तर्य लभ्यते; तस्माज्जातुशब्दस्येदं विशेषणम्(), इत्यालोच्याह--"जात्वित्येतत्()" इत्यादि॥